23231 | MAT 1:18 | यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव। |
23232 | MAT 1:19 | तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे। |
23235 | MAT 1:22 | इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः। |
23260 | MAT 2:22 | किन्तु यिहूदीयदेशे अर्खिलायनाम राजकुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं करोतीति निशम्य तत् स्थानं यातुं शङ्कितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोधं प्राप्य गालील्देशस्य प्रदेशैकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्, |
23265 | MAT 3:4 | एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महाङ्गरोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च शूककीटान् मधु च भुक्तवान्। |
23267 | MAT 3:6 | स्वीयं स्वीयं दुरितम् अङ्गीकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः। |
23332 | MAT 5:29 | तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाधते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवैकाङ्गस्य नाशो वरं। |
23333 | MAT 5:30 | यद्वा तव दक्षिणः करो यदि त्वां बाधते, तर्हि तं करं छित्त्वा दूरे निक्षिप, यतः सर्व्ववपुषो नरके निक्षेपात् एकाङ्गस्य नाशो वरं। |
23347 | MAT 5:44 | किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं। |
23370 | MAT 6:19 | अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत। |
23371 | MAT 6:20 | किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत। |
23377 | MAT 6:26 | विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति। |
23398 | MAT 7:13 | सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति। |
23417 | MAT 8:3 | ततो यीशुः करं प्रसार्य्य तस्याङ्गं स्पृशन् व्याजहार, सम्मन्येऽहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ठेनामोचि। |
23422 | MAT 8:8 | ततः स शतसेनापतिः प्रत्यवदत्, हे प्रभो, भवान् यत् मम गेहमध्यं याति तद्योग्यभाजनं नाहमस्मि; वाङ्मात्रम् आदिशतु, तेनैव मम दासो निरामयो भविष्यति। |
23427 | MAT 8:13 | ततः परं यीशुस्तं शतसेनापतिं जगाद, याहि, तव प्रतीत्यनुसारतो मङ्गलं भूयात्; तदा तस्मिन्नेव दण्डे तदीयदासो निरामयो बभूव। |
23434 | MAT 8:20 | ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते। |
23438 | MAT 8:24 | पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्। |
23439 | MAT 8:25 | तदा शिष्या आगत्य तस्य निद्राभङ्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु। |
23463 | MAT 9:15 | तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति। |
23477 | MAT 9:29 | तदानीं स तयो र्लोचनानि स्पृशन् बभाषे, युवयोः प्रतीत्यनुसाराद् युवयो र्मङ्गलं भूयात्। तेन तत्क्षणात् तयो र्नेत्राणि प्रसन्नान्यभवन्, |
23518 | MAT 10:32 | यो मनुजसाक्षान्मामङ्गीकुरुते तमहं स्वर्गस्थतातसाक्षादङ्गीकरिष्ये। |
23561 | MAT 12:3 | स तान् प्रत्यावदत, दायूद् तत्सङ्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाठि? |
23562 | MAT 12:4 | ये दर्शनीयाः पूपाः याजकान् विना तस्य तत्सङ्गिमनुजानाञ्चाभोजनीयास्त ईश्वरावासं प्रविष्टेन तेन भुक्ताः। |
23563 | MAT 12:5 | अन्यच्च विश्रामवारे मध्येमन्दिरं विश्रामवारीयं नियमं लङ्वन्तोपि याजका निर्दोषा भवन्ति, शास्त्रमध्ये किमिदमपि युष्माभि र्न पठितं? |
23602 | MAT 12:44 | पश्चात् स तत् स्थानम् उपस्थाय तत् शून्यं मार्ज्जितं शोभितञ्च विलोक्य व्रजन् स्वतोपि दुष्टतरान् अन्यसप्तभूतान् सङ्गिनः करोति। |
23613 | MAT 13:5 | अपरं कतिपयबीजेषु स्तोकमृद्युक्तपाषाणे पतितेषु मृदल्पत्वात् तत्क्षणात् तान्यङ्कुरितानि, |
23634 | MAT 13:26 | ततो यदा बीजेभ्योऽङ्करा जायमानाः कणिशानि घृतवन्तः; तदा वन्ययवसान्यपि दृश्यमानान्यभवन्। |
23637 | MAT 13:29 | तेनावादि, नहि, शङ्केऽहं वन्ययवसोत्पाटनकाले युष्माभिस्तैः साकं गोधूमा अप्युत्पाटिष्यन्ते। |
23640 | MAT 13:32 | सर्षपबीजं सर्व्वस्माद् बीजात् क्षुद्रमपि सदङ्कुरितं सर्व्वस्मात् शाकात् बृहद् भवति; स तादृशस्तरु र्भवति, यस्य शाखासु नभसः खगा आगत्य निवसन्ति; स्वर्गीयराज्यं तादृशस्य सर्षपैकस्य समम्। |
23674 | MAT 14:8 | सा कुमारी स्वीयमातुः शिक्षां लब्धा बभाषे, मज्जयितुर्योहन उत्तमाङ्गं भाजने समानीय मह्यं विश्राणय। |
23675 | MAT 14:9 | ततो राजा शुशोच, किन्तु भोजनायोपविशतां सङ्गिनां स्वकृतशपथस्य चानुरोधात् तत् प्रदातुम आदिदेश। |
23676 | MAT 14:10 | पश्चात् कारां प्रति नरं प्रहित्य योहन उत्तमाङ्गं छित्त्वा |
23690 | MAT 14:24 | किन्तु तदानीं सम्मुखवातत्वात् सरित्पते र्मध्ये तरङ्गैस्तरणिर्दोलायमानाभवत्। |
23692 | MAT 14:26 | किन्तु शिष्यास्तं सागरोपरि व्रजन्तं विलोक्य समुद्विग्ना जगदुः, एष भूत इति शङ्कमाना उच्चैः शब्दायाञ्चक्रिरे च। |
23704 | MAT 15:2 | तव शिष्याः किमर्थम् अप्रक्षालितकरै र्भक्षित्वा परम्परागतं प्राचीनानां व्यवहारं लङ्वन्ते? |
23705 | MAT 15:3 | ततो यीशुः प्रत्युवाच, यूयं परम्परागताचारेण कुत ईश्वराज्ञां लङ्वध्वे। |
23715 | MAT 15:13 | स प्रत्यवदत्, मम स्वर्गस्थः पिता यं कञ्चिदङ्कुरं नारोपयत्, स उत्पाव्द्यते। |
23733 | MAT 15:31 | इत्थं मूका वाक्यं वदन्ति, शुष्ककराः स्वास्थ्यमायान्ति, पङ्गवो गच्छन्ति, अन्धा वीक्षन्ते, इति विलोक्य लोका विस्मयं मन्यमाना इस्रायेल ईश्वरं धन्यं बभाषिरे। |
23775 | MAT 17:6 | किन्तु वाचमेतां शृण्वन्तएव शिष्या मृशं शङ्कमाना न्युब्जा न्यपतन्। |
23826 | MAT 18:30 | तथापि स तत् नाङगीकृत्य यावत् सर्व्वमृणं न परिशोधितवान् तावत् तं कारायां स्थापयामास। |
23836 | MAT 19:5 | मानुषः स्वपितरौ परित्यज्य स्वपत्न्याम् आसक्ष्यते, तौ द्वौ जनावेकाङ्गौ भविष्यतः, किमेतद् युष्माभि र्न पठितम्? |
23837 | MAT 19:6 | अतस्तौ पुन र्न द्वौ तयोरेकाङ्गत्वं जातं, ईश्वरेण यच्च समयुज्यत, मनुजो न तद् भिन्द्यात्। |
23855 | MAT 19:24 | पुनरपि युष्मानहं वदामि, धनिनां स्वर्गराज्यप्रवेशात् सूचीछिद्रेण महाङ्गगमनं सुकरं। |
23874 | MAT 20:13 | ततः स तेषामेकं प्रत्युवाच, हे वत्स, मया त्वां प्रति कोप्यन्यायो न कृतः किं त्वया मत्समक्षं मुद्राचतुर्थांशो नाङ्गीकृतः? |
23991 | MAT 23:4 | ते दुर्व्वहान् गुरुतरान् भारान् बद्व्वा मनुष्याणां स्कन्धेपरि समर्पयन्ति, किन्तु स्वयमङ्गुल्यैकयापि न चालयन्ति। |
24011 | MAT 23:24 | हे अन्धपथदर्शका यूयं मशकान् अपसारयथ, किन्तु महाङ्गान् ग्रसथ। |
24075 | MAT 24:49 | ऽपरदासान् प्रहर्त्तुं मत्तानां सङ्गे भोक्तुं पातुञ्च प्रवर्त्तते, |
24080 | MAT 25:3 | या दुर्धियस्ताः प्रदीपान् सङ्गे गृहीत्वा तैलं न जगृहुः, |
24102 | MAT 25:25 | अतोहं सशङ्कः सन् गत्वा तव मुद्रा भूमध्ये संगोप्य स्थापितवान्, पश्य, तव यत् तदेव गृहाण। |
24108 | MAT 25:31 | यदा मनुजसुतः पवित्रदूतान् सङ्गिनः कृत्वा निजप्रभावेनागत्य निजतेजोमये सिंहासने निवेक्ष्यति, |
24157 | MAT 26:34 | ततो यीशुना स उक्तः, तुभ्यमहं तथ्यं कथयामि, यामिन्यामस्यां चरणायुधस्य रवात् पूर्व्वं त्वं मां त्रि र्नाङ्गीकरिष्यसि। |
24158 | MAT 26:35 | ततः पितर उदितवान्, यद्यपि त्वया समं मर्त्तव्यं, तथापि कदापि त्वां न नाङ्गीकरिष्यामि; तथैव सर्व्वे शिष्याश्चोचुः। |
24160 | MAT 26:37 | पश्चात् स पितरं सिवदियसुतौ च सङ्गिनः कृत्वा गतवान्, शोकाकुलोऽतीव व्यथितश्च बभूव। |
24171 | MAT 26:48 | असौ परकरेष्वर्पयिता पूर्व्वं तान् इत्थं सङ्केतयामास, यमहं चुम्बिष्ये, सोऽसौ मनुजः, सएव युष्माभि र्धार्य्यतां। |
24174 | MAT 26:51 | ततो यीशोः सङ्गिनामेकः करं प्रसार्य्य कोषादसिं बहिष्कृत्य महायाजकस्य दासमेकमाहत्य तस्य कर्णं चिच्छेद। |
24192 | MAT 26:69 | पितरो बहिरङ्गन उपविशति, तदानीमेका दासी तमुपागत्य बभाषे, त्वं गालीलीययीशोः सहचरएकः। |
24193 | MAT 26:70 | किन्तु स सर्व्वेषां समक्षम् अनङ्गीकृत्यावादीत्, त्वया यदुच्यते, तदर्थमहं न वेद्मि। |
24195 | MAT 26:72 | ततः स शपथेन पुनरनङ्गीकृत्य कथितवान्, तं नरं न परिचिनोमि। |
24252 | MAT 27:54 | यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति। |
24264 | MAT 27:66 | ततस्ते गत्वा तद्दूारपाषाणं मुद्राङ्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः। |
24289 | MRK 1:5 | ततो यिहूदादेशयिरूशालम्नगरनिवासिनः सर्व्वे लोका बहि र्भूत्वा तस्य समीपमागत्य स्वानि स्वानि पापान्यङ्गीकृत्य यर्द्दननद्यां तेन मज्जिता बभूवुः। |
24320 | MRK 1:36 | अनन्तरं शिमोन् तत्सङ्गिनश्च तस्य पश्चाद् गतवन्तः। |
24354 | MRK 2:25 | तदा स तेभ्योऽकथयत् दायूद् तत्संङ्गिनश्च भक्ष्याभावात् क्षुधिताः सन्तो यत् कर्म्म कृतवन्तस्तत् किं युष्माभि र्न पठितम्? |
24355 | MRK 2:26 | अबियाथर्नामके महायाजकतां कुर्व्वति स कथमीश्वरस्यावासं प्रविश्य ये दर्शनीयपूपा याजकान् विनान्यस्य कस्यापि न भक्ष्यास्तानेव बुभुजे सङ्गिलोकेभ्योऽपि ददौ। |
24366 | MRK 3:9 | तदा लोकसमूहश्चेत् तस्योपरि पतति इत्याशङ्क्य स नावमेकां निकटे स्थापयितुं शिष्यानादिष्टवान्। |
24397 | MRK 4:5 | कियन्ति बीजानि स्वल्पमृत्तिकावत्पाषाणभूमौ पतितानि तानि मृदोल्पत्वात् शीघ्रमङ्कुरितानि; |
24402 | MRK 4:10 | तदनन्तरं निर्जनसमये तत्सङ्गिनो द्वादशशिष्याश्च तं तद्दृष्टान्तवाक्यस्यार्थं पप्रच्छुः। |
24419 | MRK 4:27 | जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च; |
24424 | MRK 4:32 | किन्तु वपनात् परम् अङ्कुरयित्वा सर्व्वशाकाद् बृहद् भवति, तस्य बृहत्यः शाखाश्च जायन्ते ततस्तच्छायां पक्षिण आश्रयन्ते। |
24429 | MRK 4:37 | ततः परं महाझञ्भ्शगमात् नौ र्दोलायमाना तरङ्गेण जलैः पूर्णाभवच्च। |
24431 | MRK 4:39 | तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तरङ्गोभूत्। |
24432 | MRK 4:40 | तदा स तानुवाच यूयं कुत एतादृक्शङ्काकुला भवत? किं वो विश्वासो नास्ति? |
24436 | MRK 5:3 | स श्मशानेऽवात्सीत् कोपि तं शृङ्खलेन बद्व्वा स्थापयितुं नाशक्नोत्। |
24437 | MRK 5:4 | जनैर्वारं निगडैः शृङ्खलैश्च स बद्धोपि शृङ्खलान्याकृष्य मोचितवान् निगडानि च भंक्त्वा खण्डं खण्डं कृतवान् कोपि तं वशीकर्त्तुं न शशक। |
24446 | MRK 5:13 | यीशुनानुज्ञातास्तेऽपवित्रभूता बहिर्निर्याय वराहव्रजं प्राविशन् ततः सर्व्वे वराहा वस्तुतस्तु प्रायोद्विसहस्रसंङ्ख्यकाः कटकेन महाजवाद् धावन्तः सिन्धौ प्राणान् जहुः। |
24473 | MRK 5:40 | तस्मात्ते तमुपजहसुः किन्तु यीशुः सर्व्वान बहिष्कृत्य कन्यायाः पितरौ स्वसङ्गिनश्च गृहीत्वा यत्र कन्यासीत् तत् स्थानं प्रविष्टवान्। |
24502 | MRK 6:26 | तस्मात् भूपोऽतिदुःखितः, तथापि स्वशपथस्य सहभोजिनाञ्चानुरोधात् तदनङ्गीकर्त्तुं न शक्तः। |
24510 | MRK 6:34 | तदा यीशु र्नावो बहिर्गत्य लोकारण्यानीं दृष्ट्वा तेषु करुणां कृतवान् यतस्तेऽरक्षकमेषा इवासन् तदा स तान नानाप्रसङ्गान् उपदिष्टवान्। |
24565 | MRK 7:33 | ततो यीशु र्लोकारण्यात् तं निर्जनमानीय तस्य कर्णयोङ्गुली र्ददौ निष्ठीवं दत्त्वा च तज्जिह्वां पस्पर्श। |
24632 | MRK 9:25 | अथ यीशु र्लोकसङ्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि। |
24665 | MRK 10:8 | तौ द्वाव् एकाङ्गौ भविष्यतः।" तस्मात् तत्कालमारभ्य तौ न द्वाव् एकाङ्गौ। |
24673 | MRK 10:16 | अननतरं स शिशूनङ्के निधाय तेषां गात्रेषु हस्तौ दत्त्वाशिषं बभाषे। |
24682 | MRK 10:25 | ईश्वरराज्ये धनिनां प्रवेशात् सूचिरन्ध्रेण महाङ्गस्य गमनागमनं सुकरं। |
24701 | MRK 10:44 | युष्माकं यो महान् भवितुमिच्छति स सर्व्वेषां किङ्करो भविष्यति। |
24746 | MRK 12:4 | ततः स पुनरन्यमेकं भृत्यं प्रषयामास, किन्तु ते कृषीवलाः पाषाणाघातैस्तस्य शिरो भङ्क्त्वा सापमानं तं व्यसर्जन्। |
24781 | MRK 12:39 | लोककृतनमस्कारान् भजनगृहे प्रधानासनानि भोजनकाले प्रधानस्थानानि च काङ्क्षन्ते; |
24826 | MRK 14:3 | अनन्तरं बैथनियापुुरे शिमोनकुष्ठिनो गृहे योशौ भोत्कुमुपविष्टे सति काचिद् योषित् पाण्डरपाषाणस्य सम्पुटकेन महार्घ्योत्तमतैलम् आनीय सम्पुटकं भंक्त्वा तस्योत्तमाङ्गे तैलधारां पातयाञ्चक्रे। |
24845 | MRK 14:22 | अपरञ्च तेषां भोजनसमये यीशुः पूपं गृहीत्वेश्वरगुणान् अनुकीर्त्य भङ्क्त्वा तेभ्यो दत्त्वा बभाषे, एतद् गृहीत्वा भुञ्जीध्वम् एतन्मम विग्रहरूपं। |
24866 | MRK 14:43 | इमां कथां कथयति स, एतर्हिद्वादशानामेको यिहूदा नामा शिष्यः प्रधानयाजकानाम् उपाध्यायानां प्राचीनलोकानाञ्च सन्निधेः खङ्गलगुडधारिणो बहुलोकान् गृहीत्वा तस्य समीप उपस्थितवान्। |
24867 | MRK 14:44 | अपरञ्चासौ परपाणिषु समर्पयिता पूर्व्वमिति सङ्केतं कृतवान् यमहं चुम्बिष्यामि स एवासौ तमेव धृत्वा सावधानं नयत। |
24870 | MRK 14:47 | ततस्तस्य पार्श्वस्थानां लोकानामेकः खङ्गं निष्कोषयन् महायाजकस्य दासमेकं प्रहृत्य तस्य कर्णं चिच्छेद। |
24871 | MRK 14:48 | पश्चाद् यीशुस्तान् व्याजहार खङ्गान् लगुडांश्च गृहीत्वा मां किं चौरं धर्त्तां समायाताः? |
24877 | MRK 14:54 | पितरो दूरे तत्पश्चाद् इत्वा महायाजकस्याट्टालिकां प्रविश्य किङ्करैः सहोपविश्य वह्नितापं जग्राह। |
24882 | MRK 14:59 | किन्तु तत्रापि तेषां साक्ष्यकथा न सङ्गाताः। |
24890 | MRK 14:67 | तं विह्नितापं गृह्लन्तं विलोक्य तं सुनिरीक्ष्य बभाषे त्वमपि नासरतीययीशोः सङ्गिनाम् एको जन आसीः। |
24914 | MRK 15:19 | तस्योत्तमाङ्गे वेत्राघातं चक्रुस्तद्गात्रे निष्ठीवञ्च निचिक्षिपुः, तथा तस्य सम्मुखे जानुपातं प्रणोमुः |