23215 | MAT 1:2 | इब्राहीमः पुत्र इस्हाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य भ्रातरश्च। |
23224 | MAT 1:11 | बाबिल्नगरे प्रवसनात् पूर्व्वं स योशियो यिखनियं तस्य भ्रातृंश्च जनयामास। |
23230 | MAT 1:17 | इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति। |
23232 | MAT 1:19 | तत्र तस्याः पति र्यूषफ् सौजन्यात् तस्याः कलङ्गं प्रकाशयितुम् अनिच्छन् गोपनेने तां पारित्यक्तुं मनश्चक्रे। |
23234 | MAT 1:21 | यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति। |
23235 | MAT 1:22 | इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः। |
23236 | MAT 1:23 | इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्। |
23238 | MAT 1:25 | किन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य नाम यीशुं चक्रे। |
23239 | MAT 2:1 | अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः, |
23242 | MAT 2:4 | सर्व्वान् प्रधानयाजकान् अध्यापकांश्च समाहूयानीय पप्रच्छ, ख्रीष्टः कुत्र जनिष्यते? |
23244 | MAT 2:6 | सर्व्वाभ्यो राजधानीभ्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेशस्ये बैत्लेहम् त्वं न चावरा। इस्रायेलीयलोकान् मे यतो यः पालयिष्यति। तादृगेको महाराजस्त्वन्मध्य उद्भविष्यती॥ |
23245 | MAT 2:7 | तदानीं हेरोद् राजा तान् ज्योतिर्व्विदो गोपनम् आहूय सा तारका कदा दृष्टाभवत्, तद् विनिश्चयामास। |
23249 | MAT 2:11 | ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः। |
23250 | MAT 2:12 | पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे। |
23251 | MAT 2:13 | अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते। |
23252 | MAT 2:14 | तदानीं यूषफ् उत्थाय रजन्यां शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं प्रति प्रतस्थे, |
23253 | MAT 2:15 | गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्। |
23254 | MAT 2:16 | अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास। |
23255 | MAT 2:17 | अतः अनेकस्य विलापस्य निनाद: क्रन्दनस्य च। शोकेन कृतशब्दश्च रामायां संनिशम्यते। स्वबालगणहेतोर्वै राहेल् नारी तु रोदिनी। न मन्यते प्रबोधन्तु यतस्ते नैव मन्ति हि॥ |
23256 | MAT 2:18 | यदेतद् वचनं यिरीमियनामकभविष्यद्वादिना कथितं तत् तदानीं सफलम् अभूत्। |
23258 | MAT 2:20 | त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा पुनरपीस्रायेलो देशं याही, ये जनाः शिशुं नाशयितुम् अमृगयन्त, ते मृतवन्तः। |
23259 | MAT 2:21 | तदानीं स उत्थाय शिशुं तन्मातरञ्च गृह्लन् इस्रायेल्देशम् आजगाम। |
23260 | MAT 2:22 | किन्तु यिहूदीयदेशे अर्खिलायनाम राजकुमारो निजपितु र्हेरोदः पदं प्राप्य राजत्वं करोतीति निशम्य तत् स्थानं यातुं शङ्कितवान्, पश्चात् स्वप्न ईश्वरात् प्रबोधं प्राप्य गालील्देशस्य प्रदेशैकं प्रस्थाय नासरन्नाम नगरं गत्वा तत्र न्युषितवान्, |
23262 | MAT 3:1 | तदानों योह्न्नामा मज्जयिता यिहूदीयदेशस्य प्रान्तरम् उपस्थाय प्रचारयन् कथयामास, |
23264 | MAT 3:3 | परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथांश्चैव समीकुरुत सर्व्वथा। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥ |
23265 | MAT 3:4 | एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महाङ्गरोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च शूककीटान् मधु च भुक्तवान्। |
23266 | MAT 3:5 | तदानीं यिरूशालम्नगरनिवासिनः सर्व्वे यिहूदिदेशीया यर्द्दन्तटिन्या उभयतटस्थाश्च मानवा बहिरागत्य तस्य समीपे |
23268 | MAT 3:7 | अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्? |
23269 | MAT 3:8 | मनःपरावर्त्तनस्य समुचितं फलं फलत। |
23270 | MAT 3:9 | किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं शक्नोति। |
23272 | MAT 3:11 | अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति। |
23275 | MAT 3:14 | किन्तु योहन् तं निषिध्य बभाषे, त्वं किं मम समीपम् आगच्छसि? वरं त्वया मज्जनं मम प्रयोजनम् आस्ते। |
23276 | MAT 3:15 | तदानीं यीशुः प्रत्यवोचत्; ईदानीम् अनुमन्यस्व, यत इत्थं सर्व्वधर्म्मसाधनम् अस्माकं कर्त्तव्यं, ततः सोऽन्वमन्यत। |
23277 | MAT 3:16 | अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षाञ्चक्रे। |
23280 | MAT 4:2 | सन् चत्वारिंशदहोरात्रान् अनाहारस्तिष्ठन् क्षुधितो बभूव। |
23282 | MAT 4:4 | ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।" |
23283 | MAT 4:5 | तदा प्रतारकस्तं पुण्यनगरं नीत्वा मन्दिरस्य चूडोपरि निधाय गदितवान्, |
23284 | MAT 4:6 | त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥ |
23286 | MAT 4:8 | अनन्तरं प्रतारकः पुनरपि तम् अत्युञ्चधराधरोपरि नीत्वा जगतः सकलराज्यानि तदैश्वर्य्याणि च दर्शयाश्चकार कथयाञ्चकार च, |
23288 | MAT 4:10 | तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।" |
23293 | MAT 4:15 | तत्रत्या मनुजा ये ये पर्य्यभ्राम्यन् तमिस्रके। तैर्जनैर्बृहदालोकः परिदर्शिष्यते तदा। अवसन् ये जना देशे मृत्युच्छायास्वरूपके। तेषामुपरि लोकानामालोकः संप्रकाशितः॥ |
23294 | MAT 4:16 | यदेतद्वचनं यिशयियभविष्यद्वादिना प्रोक्तं, तत् तदा सफलम् अभूत्। |
23295 | MAT 4:17 | अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्। |
23296 | MAT 4:18 | ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्। |
23297 | MAT 4:19 | तदा स तावाहूय व्याजहार, युवां मम पश्चाद् आगच्छतं, युवामहं मनुजधारिणौ करिष्यामि। |
23298 | MAT 4:20 | तेनैव तौ जालं विहाय तस्य पश्चात् आगच्छताम्। |
23300 | MAT 4:22 | तत्क्षणात् तौ नावं स्वतातञ्च विहाय तस्य पश्चाद्गामिनौ बभूवतुः। |
23301 | MAT 4:23 | अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत। |
23302 | MAT 4:24 | तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार। |
23303 | MAT 4:25 | एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्। |
23305 | MAT 5:2 | तदानीं शिष्येषु तस्य समीपमागतेषु तेन तेभ्य एषा कथा कथ्याञ्चक्रे। |
23308 | MAT 5:5 | नम्रा मानवाश्च धन्याः, यस्मात् ते मेदिनीम् अधिकरिष्यन्ति। |
23309 | MAT 5:6 | धर्म्माय बुभुक्षिताः तृषार्त्ताश्च मनुजा धन्याः, यस्मात् ते परितर्प्स्यन्ति। |
23311 | MAT 5:8 | निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति। |
23312 | MAT 5:9 | मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति। |
23314 | MAT 5:11 | यदा मनुजा मम नामकृते युष्मान् निन्दन्ति ताडयन्ति मृषा नानादुर्व्वाक्यानि वदन्ति च, तदा युयं धन्याः। |
23315 | MAT 5:12 | तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्। |
23316 | MAT 5:13 | युयं मेदिन्यां लवणरूपाः, किन्तु यदि लवणस्य लवणत्वम् अपयाति, तर्हि तत् केन प्रकारेण स्वादुयुक्तं भविष्यति? तत् कस्यापि कार्य्यस्यायोग्यत्वात् केवलं बहिः प्रक्षेप्तुं नराणां पदतलेन दलयितुञ्च योग्यं भवति। |
23320 | MAT 5:17 | अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि। |
23322 | MAT 5:19 | तस्मात् यो जन एतासाम् आज्ञानाम् अतिक्षुद्राम् एकाज्ञामपी लंघते मनुजांञ्च तथैव शिक्षयति, स स्वर्गीयराज्ये सर्व्वेभ्यः क्षुद्रत्वेन विख्यास्यते, किन्तु यो जनस्तां पालयति, तथैव शिक्षयति च, स स्वर्गीयराज्ये प्रधानत्वेन विख्यास्यते। |
23324 | MAT 5:21 | अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि। |
23325 | MAT 5:22 | किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति। |
23326 | MAT 5:23 | अतो वेद्याः समीपं निजनैवेद्ये समानीतेऽपि निजभ्रातरं प्रति कस्माच्चित् कारणात् त्वं यदि दोषी विद्यसे, तदानीं तव तस्य स्मृति र्जायते च, |
23327 | MAT 5:24 | तर्हि तस्या वेद्याः समीपे निजनैवैद्यं निधाय तदैव गत्वा पूर्व्वं तेन सार्द्धं मिल, पश्चात् आगत्य निजनैवेद्यं निवेदय। |