23216 | MAT 1:3 | तस्माद् यिहूदातस्तामरो गर्भे पेरस्सेरहौ जज्ञाते, तस्य पेरसः पुत्रो हिष्रोण् तस्य पुत्रो ऽराम्। |
23218 | MAT 1:5 | तस्माद् राहबो गर्भे बोयम् जज्ञे, तस्माद् रूतो गर्भे ओबेद् जज्ञे, तस्य पुत्रो यिशयः। |
23219 | MAT 1:6 | तस्य पुत्रो दायूद् राजः तस्माद् मृतोरियस्य जायायां सुलेमान् जज्ञे। |
23235 | MAT 1:22 | इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः। |
23239 | MAT 2:1 | अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः, |
23247 | MAT 2:9 | तदानीं राज्ञ एतादृशीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ। |
23249 | MAT 2:11 | ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः। |
23251 | MAT 2:13 | अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते। |
23252 | MAT 2:14 | तदानीं यूषफ् उत्थाय रजन्यां शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं प्रति प्रतस्थे, |
23254 | MAT 2:16 | अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास। |
23258 | MAT 2:20 | त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा पुनरपीस्रायेलो देशं याही, ये जनाः शिशुं नाशयितुम् अमृगयन्त, ते मृतवन्तः। |
23259 | MAT 2:21 | तदानीं स उत्थाय शिशुं तन्मातरञ्च गृह्लन् इस्रायेल्देशम् आजगाम। |
23277 | MAT 3:16 | अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षाञ्चक्रे। |
23281 | MAT 4:3 | तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज्ञया पाषाणानेतान् पूपान् विधेहि। |
23286 | MAT 4:8 | अनन्तरं प्रतारकः पुनरपि तम् अत्युञ्चधराधरोपरि नीत्वा जगतः सकलराज्यानि तदैश्वर्य्याणि च दर्शयाश्चकार कथयाञ्चकार च, |
23300 | MAT 4:22 | तत्क्षणात् तौ नावं स्वतातञ्च विहाय तस्य पश्चाद्गामिनौ बभूवतुः। |
23303 | MAT 4:25 | एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्। |
23305 | MAT 5:2 | तदानीं शिष्येषु तस्य समीपमागतेषु तेन तेभ्य एषा कथा कथ्याञ्चक्रे। |
23315 | MAT 5:12 | तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्। |
23316 | MAT 5:13 | युयं मेदिन्यां लवणरूपाः, किन्तु यदि लवणस्य लवणत्वम् अपयाति, तर्हि तत् केन प्रकारेण स्वादुयुक्तं भविष्यति? तत् कस्यापि कार्य्यस्यायोग्यत्वात् केवलं बहिः प्रक्षेप्तुं नराणां पदतलेन दलयितुञ्च योग्यं भवति। |
23320 | MAT 5:17 | अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि। |
23322 | MAT 5:19 | तस्मात् यो जन एतासाम् आज्ञानाम् अतिक्षुद्राम् एकाज्ञामपी लंघते मनुजांञ्च तथैव शिक्षयति, स स्वर्गीयराज्ये सर्व्वेभ्यः क्षुद्रत्वेन विख्यास्यते, किन्तु यो जनस्तां पालयति, तथैव शिक्षयति च, स स्वर्गीयराज्ये प्रधानत्वेन विख्यास्यते। |
23324 | MAT 5:21 | अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि। |
23328 | MAT 5:25 | अन्यञ्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्ठसि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निधौ समर्पयति तदा त्वं कारायां बध्येथाः। |
23331 | MAT 5:28 | किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः काञ्चन योषितं पश्यति, तर्हि स मनसा तदैव व्यभिचरितवान्। |
23341 | MAT 5:38 | अपरं लोचनस्य विनिमयेन लोचनं दन्तस्य विनिमयेन दन्तः पूर्व्वक्तमिदं वचनञ्च युष्माभिरश्रूयत। |
23342 | MAT 5:39 | किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोलञ्च व्याघोटय। |
23348 | MAT 5:45 | तत्र यः सतामसताञ्चोपरि प्रभाकरम् उदाययति, तथा धार्म्मिकानामधार्म्मिकानाञ्चोपरि नीरं वर्षयति तादृशो यो युष्माकं स्वर्गस्थः पिता, यूयं तस्यैव सन्ताना भविष्यथ। |
23352 | MAT 6:1 | सावधाना भवत, मनुजान् दर्शयितुं तेषां गोचरे धर्म्मकर्म्म मा कुरुत, तथा कृते युष्माकं स्वर्गस्थपितुः सकाशात् किञ्चन फलं न प्राप्स्यथ। |
23354 | MAT 6:3 | किन्तु त्वं यदा ददासि, तदा निजदक्षिणकरो यत् करोति, तद् वामकरं मा ज्ञापय। |
23367 | MAT 6:16 | अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तइव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त। |
23368 | MAT 6:17 | यदा त्वम् उपवससि, तदा यथा लोकैस्त्वं उपवासीव न दृश्यसे, किन्तु तव योऽगोचरः पिता तेनैव दृश्यसे, तत्कृते निजशिरसि तैलं मर्द्दय वदनञ्च प्रक्षालय; |
23371 | MAT 6:20 | किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत। |
23375 | MAT 6:24 | कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ। |
23376 | MAT 6:25 | अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि? |
23377 | MAT 6:26 | विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति। |
23382 | MAT 6:31 | तस्मात् अस्माभिः किमत्स्यते? किञ्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत। |
23384 | MAT 6:33 | अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते। |
23387 | MAT 7:2 | यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते। |
23388 | MAT 7:3 | अपरञ्च निजनयने या नासा विद्यते, ताम् अनालोच्य तव सहजस्य लोचने यत् तृणम् आस्ते, तदेव कुतो वीक्षसे? |
23391 | MAT 7:6 | अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति। |
23400 | MAT 7:15 | अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ। |
23409 | MAT 7:24 | यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते। |
23411 | MAT 7:26 | किन्तु यः कश्चित् ममैताः कथाः श्रुत्वा न पालयति स सैकते गेहनिर्म्मात्रा ऽज्ञानिना उपमीयते। |
23428 | MAT 8:14 | अनन्तरं यीशुः पितरस्य गेहमुपस्थाय ज्वरेण पीडितां शयनीयस्थितां तस्य श्वश्रूं वीक्षाञ्चक्रे। |
23438 | MAT 8:24 | पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्। |
23440 | MAT 8:26 | तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागरञ्च तर्जयामास, ततो निर्व्वातमभवत्। |
23441 | MAT 8:27 | अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज्ञाग्राहिणौ? कीदृशोऽयं मानवः। |
23444 | MAT 8:30 | तदानीं ताभ्यां किञ्चिद् दूरे वराहाणाम् एको महाव्रजोऽचरत्। |
23448 | MAT 8:34 | ततो नागरिकाः सर्व्वे मनुजा यीशुं साक्षात् कर्त्तुं बहिरायाताः तञ्च विलोक्य प्रार्थयाञ्चक्रिरे भवान् अस्माकं सीमातो यातु। |
23450 | MAT 9:2 | ततः कतिपया जना एकं पक्षाघातिनं स्वट्टोपरि शाययित्वा तत्समीपम् आनयन्; ततो यीशुस्तेषां प्रतीतिं विज्ञाय तं पक्षाघातिनं जगाद, हे पुत्र, सुस्थिरो भव, तव कलुषस्य मर्षणं जातम्। |
23452 | MAT 9:4 | ततः स तेषाम् एतादृशीं चिन्तां विज्ञाय कथितवान्, यूयं मनःसु कृत एतादृशीं कुचिन्तां कुरुथ? |
23461 | MAT 9:13 | अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि। |
23462 | MAT 9:14 | अनन्तरं योहनः शिष्यास्तस्य समीपम् आगत्य कथयामासुः, फिरूशिनो वयञ्च पुनः पुनरुपवसामः, किन्तु तव शिष्या नोपवसन्ति, कुतः? |
23464 | MAT 9:16 | पुरातनवसने कोपि नवीनवस्त्रं न योजयति, यस्मात् तेन योजितेन पुरातनवसनं छिनत्ति तच्छिद्रञ्च बहुकुत्सितं दृश्यते। |
23465 | MAT 9:17 | अन्यञ्च पुरातनकुत्वां कोपि नवानगोस्तनीरसं न निदधाति, यस्मात् तथा कृते कुतू र्विदीर्य्यते तेन गोस्तनीरसः पतति कुतूश्च नश्यति; तस्मात् नवीनायां कुत्वां नवीनो गोस्तनीरसः स्थाप्यते, तेन द्वयोरवनं भवति। |
23478 | MAT 9:30 | पश्चाद् यीशुस्तौ दृढमाज्ञाप्य जगाद, अवधत्तम् एतां कथां कोपि मनुजो म जानीयात्। |
23481 | MAT 9:33 | तेन भूते त्याजिते स मूकः कथां कथयितुं प्रारभत, तेन जना विस्मयं विज्ञाय कथयामासुः, इस्रायेलो वंशे कदापि नेदृगदृश्यत; |
23482 | MAT 9:34 | किन्तु फिरूशिनः कथयाञ्चक्रुः भूताधिपतिना स भूतान् त्याजयति। |
23484 | MAT 9:36 | अन्यञ्च मनुजान् व्याकुलान् अरक्षकमेषानिव च त्यक्तान् निरीक्ष्य तेषु कारुणिकः सन् शिष्यान् अवदत्, |
23491 | MAT 10:5 | एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये |
23497 | MAT 10:11 | अपरं यूयं यत् पुरं यञ्च ग्रामं प्रविशथ, तत्र यो जनो योग्यपात्रं तमवगत्य यानकालं यावत् तत्र तिष्ठत। |
23500 | MAT 10:14 | किन्तु ये जना युष्माकमातिथ्यं न विदधति युष्माकं कथाञ्च न शृण्वन्ति तेषां गेहात् पुराद्वा प्रस्थानकाले स्वपदूलीः पातयत। |
23504 | MAT 10:18 | यूयं मन्नामहेतोः शास्तृणां राज्ञाञ्च समक्षं तानन्यदेशिनश्चाधि साक्षित्वार्थमानेष्यध्वे। |
23507 | MAT 10:21 | सहजः सहजं तातः सुतञ्च मृतौ समर्पयिष्यति, अपत्यागि स्वस्वपित्रोे र्विपक्षीभूय तौ घातयिष्यन्ति। |
23512 | MAT 10:26 | किन्तु तेभ्यो यूयं मा बिभीत, यतो यन्न प्रकाशिष्यते, तादृक् छादितं किमपि नास्ति, यच्च न व्यञ्चिष्यते, तादृग् गुप्तं किमपि नास्ति। |
23520 | MAT 10:34 | पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितुञ्चागतेास्मि। |
23527 | MAT 10:41 | यो भविष्यद्वादीति ज्ञात्वा तस्यातिथ्यं विधत्ते, स भविष्यद्वादिनः फलं लप्स्यते, यश्च धार्म्मिक इति विदित्वा तस्यातिथ्यं विधत्ते स धार्म्मिकमानवस्य फलं प्राप्स्यति। |
23528 | MAT 10:42 | यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते। |
23529 | MAT 11:1 | इत्थं यीशुः स्वद्वादशशिष्याणामाज्ञापनं समाप्य पुरे पुर उपदेष्टुं सुसंवादं प्रचारयितुं तत्स्थानात् प्रतस्थे। |
23532 | MAT 11:4 | यीशुः प्रत्यवोचत्, अन्धा नेत्राणि लभन्ते, खञ्चा गच्छन्ति, कुष्ठिनः स्वस्था भवन्ति, बधिराः शृण्वन्ति, मृता जीवन्त उत्तिष्ठन्ति, दरिद्राणां समीपे सुसंवादः प्रचार्य्यत, |
23540 | MAT 11:12 | अपरञ्च आ योहनोऽद्य यावत् स्वर्गराज्यं बलादाक्रान्तं भवति आक्रमिनश्च जना बलेन तदधिकुर्व्वन्ति। |
23547 | MAT 11:19 | मनुजसुत आगत्य भुक्तवान् पीतवांश्च, तेन लोका वदन्ति, पश्यत एष भोक्ता मद्यपाता चण्डालपापिनां बन्धश्च, किन्तु ज्ञानिनो ज्ञानव्यवहारं निर्दोषं जानन्ति। |
23551 | MAT 11:23 | अपरञ्च बत कफर्नाहूम्, त्वं स्वर्गं यावदुन्नतोसि, किन्तु नरके निक्षेप्स्यसे, यस्मात् त्वयि यान्याश्चर्य्याणि कर्म्मण्यकारिषत, यदि तानि सिदोम्नगर अकारिष्यन्त, तर्हि तदद्य यावदस्थास्यत्। |
23553 | MAT 11:25 | एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि। |
23557 | MAT 11:29 | अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे। |
23559 | MAT 12:1 | अनन्तरं यीशु र्विश्रामवारे श्स्यमध्येन गच्छति, तदा तच्छिष्या बुभुक्षिताः सन्तः श्स्यमञ्जरीश्छत्वा छित्वा खादितुमारभन्त। |
23562 | MAT 12:4 | ये दर्शनीयाः पूपाः याजकान् विना तस्य तत्सङ्गिमनुजानाञ्चाभोजनीयास्त ईश्वरावासं प्रविष्टेन तेन भुक्ताः। |
23565 | MAT 12:7 | किन्तु दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि। एतद्वचनस्यार्थं यदि युयम् अज्ञासिष्ट तर्हि निर्दोषान् दोषिणो नाकार्ष्ट। |
23573 | MAT 12:15 | ततो यीशुस्तद् विदित्वा स्थनान्तरं गतवान्; अन्येषु बहुनरेषु तत्पश्चाद् गतेषु तान् स निरामयान् कृत्वा इत्याज्ञापयत्, |
23576 | MAT 12:18 | केनापि न विरोधं स विवादञ्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते। |
23577 | MAT 12:19 | व्यवस्था चलिता यावत् नहि तेन करिष्यते। तावत् नलो विदीर्णोऽपि भंक्ष्यते नहि तेन च। तथा सधूमवर्त्तिञ्च न स निर्व्वापयिष्यते। |
23578 | MAT 12:20 | प्रत्याशाञ्च करिष्यन्ति तन्नाम्नि भिन्नदेशजाः। |
23580 | MAT 12:22 | अनन्तरं लोकै स्तत्समीपम् आनीतो भूतग्रस्तान्धमूकैकमनुजस्तेन स्वस्थीकृतः, ततः सोऽन्धो मूको द्रष्टुं वक्तुञ्चारब्धवान्। |
23581 | MAT 12:23 | अनेन सर्व्वे विस्मिताः कथयाञ्चक्रुः, एषः किं दायूदः सन्तानो नहि? |
23583 | MAT 12:25 | तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति। |