| 23214 |   MAT 1:1  |  इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशुख्रीष्टस्तस्य पूर्व्वपुरुषवंशश्रेणी। | 
| 23215 |   MAT 1:2  |  इब्राहीमः पुत्र इस्हाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य भ्रातरश्च। | 
| 23216 |   MAT 1:3  |  तस्माद् यिहूदातस्तामरो गर्भे पेरस्सेरहौ जज्ञाते, तस्य पेरसः पुत्रो हिष्रोण् तस्य पुत्रो ऽराम्। | 
| 23217 |   MAT 1:4  |  तस्य पुत्रो ऽम्मीनादब् तस्य पुत्रो नहशोन् तस्य पुत्रः सल्मोन्। | 
| 23218 |   MAT 1:5  |  तस्माद् राहबो गर्भे बोयम् जज्ञे, तस्माद् रूतो गर्भे ओबेद् जज्ञे, तस्य पुत्रो यिशयः। | 
| 23219 |   MAT 1:6  |  तस्य पुत्रो दायूद् राजः तस्माद् मृतोरियस्य जायायां सुलेमान् जज्ञे। | 
| 23226 |   MAT 1:13  |  तस्य सुतो ऽबोहुद् तस्य सुत इलीयाकीम् तस्य सुतोऽसोर्। | 
| 23227 |   MAT 1:14  |  असोरः सुतः सादोक् तस्य सुत आखीम् तस्य सुत इलीहूद्। | 
| 23229 |   MAT 1:16  |  तस्य सुतो याकूब् तस्य सुतो यूषफ् तस्य जाया मरियम्; तस्य गर्भे यीशुरजनि, तमेव ख्रीष्टम् (अर्थाद् अभिषिक्तं) वदन्ति। | 
| 23230 |   MAT 1:17  |  इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति। | 
| 23231 |   MAT 1:18  |  यीशुख्रीष्टस्य जन्म कथ्थते। मरियम् नामिका कन्या यूषफे वाग्दत्तासीत्, तदा तयोः सङ्गमात् प्राक् सा कन्या पवित्रेणात्मना गर्भवती बभूव। | 
| 23233 |   MAT 1:20  |  स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः। | 
| 23234 |   MAT 1:21  |  यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति। | 
| 23235 |   MAT 1:22  |  इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः। | 
| 23236 |   MAT 1:23  |  इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्। | 
| 23237 |   MAT 1:24  |  अनन्तरं यूषफ् निद्रातो जागरित उत्थाय परमेश्वरीयदूतस्य निदेशानुसारेण निजां जायां जग्राह, | 
| 23239 |   MAT 2:1  |  अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः, | 
| 23240 |   MAT 2:2  |  यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम। | 
| 23241 |   MAT 2:3  |  तदा हेरोद् राजा कथामेतां निशम्य यिरूशालम्नगरस्थितैः सर्व्वमानवैः सार्द्धम् उद्विज्य | 
| 23243 |   MAT 2:5  |  तदा ते कथयामासुः, यिहूदीयदेशस्य बैत्लेहमि नगरे, यतो भविष्यद्वादिना इत्थं लिखितमास्ते, | 
| 23244 |   MAT 2:6  |  सर्व्वाभ्यो राजधानीभ्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेशस्ये बैत्लेहम् त्वं न चावरा। इस्रायेलीयलोकान् मे यतो यः पालयिष्यति। तादृगेको महाराजस्त्वन्मध्य उद्भविष्यती॥ | 
| 23245 |   MAT 2:7  |  तदानीं हेरोद् राजा तान् ज्योतिर्व्विदो गोपनम् आहूय सा तारका कदा दृष्टाभवत्, तद् विनिश्चयामास। | 
| 23246 |   MAT 2:8  |  अपरं तान् बैत्लेहमं प्रहीत्य गदितवान्, यूयं यात, यत्नात् तं शिशुम् अन्विष्य तदुद्देशे प्राप्ते मह्यं वार्त्तां दास्यथ, ततो मयापि गत्वा स प्रणंस्यते। | 
| 23247 |   MAT 2:9  |  तदानीं राज्ञ एतादृशीम् आज्ञां प्राप्य ते प्रतस्थिरे, ततः पूर्व्वर्स्यां दिशि स्थितैस्तै र्या तारका दृष्टा सा तारका तेषामग्रे गत्वा यत्र स्थाने शिशूरास्ते, तस्य स्थानस्योपरि स्थगिता तस्यौ। | 
| 23248 |   MAT 2:10  |  तद् दृष्ट्वा ते महानन्दिता बभूवुः, | 
| 23249 |   MAT 2:11  |  ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः। | 
| 23250 |   MAT 2:12  |  पश्चाद् हेरोद् राजस्य समीपं पुनरपि गन्तुं स्वप्न ईश्वरेण निषिद्धाः सन्तो ऽन्येन पथा ते निजदेशं प्रति प्रतस्थिरे। | 
| 23251 |   MAT 2:13  |  अनन्तरं तेषु गतवत्मु परमेश्वरस्य दूतो यूषफे स्वप्ने दर्शनं दत्वा जगाद, त्वम् उत्थाय शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं पलायस्व, अपरं यावदहं तुभ्यं वार्त्तां न कथयिष्यामि, तावत् तत्रैव निवस, यतो राजा हेरोद् शिशुं नाशयितुं मृगयिष्यते। | 
| 23252 |   MAT 2:14  |  तदानीं यूषफ् उत्थाय रजन्यां शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं प्रति प्रतस्थे, | 
| 23253 |   MAT 2:15  |  गत्वा च हेरोदो नृपते र्मरणपर्य्यन्तं तत्र देशे न्युवास, तेन मिसर्देशादहं पुत्रं स्वकीयं समुपाहूयम्। यदेतद्वचनम् ईश्वरेण भविष्यद्वादिना कथितं तत् सफलमभूत्। | 
| 23254 |   MAT 2:16  |  अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास। |