23282 | MAT 4:4 | ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।" |
23285 | MAT 4:7 | तदानीं यीशुस्तस्मै कथितवान् एतदपि लिखितमास्ते, "त्वं निजप्रभुं परमेश्वरं मा परीक्षस्व।" |
23288 | MAT 4:10 | तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।" |
23908 | MAT 21:13 | अपरं तानुवाच, एषा लिपिरास्ते, "मम गृहं प्रार्थनागृहमिति विख्यास्यति", किन्तु यूयं तद् दस्यूनां गह्वरं कृतवन्तः। |
23973 | MAT 22:32 | "अहमिब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वर" इति किं युष्माभि र्नापाठि? किन्त्वीश्वरो जीवताम् ईश्वर:, स मृतानामीश्वरो नहि। |
24154 | MAT 26:31 | तदानीं यीशुस्तानवोचत्, अस्यां रजन्यामहं युष्माकं सर्व्वेषां विघ्नरूपो भविष्यामि, यतो लिखितमास्ते, "मेषाणां रक्षको यस्तं प्रहरिष्याम्यहं ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति"॥ |
24244 | MAT 27:46 | तृतीययामे "एली एली लामा शिवक्तनी", अर्थात् मदीश्वर मदीश्वर कुतो मामत्याक्षीः? यीशुरुच्चैरिति जगाद। |
24287 | MRK 1:3 | "परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना।" इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद्रवः॥ |
24404 | MRK 4:12 | किन्तु ये वहिर्भूताः "ते पश्यन्तः पश्यन्ति किन्तु न जानन्ति, शृण्वन्तः शृण्वन्ति किन्तु न बुध्यन्ते, चेत्तै र्मनःसु कदापि परिवर्त्तितेषु तेषां पापान्यमोचयिष्यन्त," अतोहेतोस्तान् प्रति दृष्टान्तैरेव तानि मया कथितानि। |
24664 | MRK 10:7 | "ततः कारणात् पुमान् पितरं मातरञ्च त्यक्त्वा स्वजायायाम् आसक्तो भविष्यति, |
24665 | MRK 10:8 | तौ द्वाव् एकाङ्गौ भविष्यतः।" तस्मात् तत्कालमारभ्य तौ न द्वाव् एकाङ्गौ। |
24752 | MRK 12:10 | अपरञ्च, "स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्राधानप्रस्तरः कोणे स एव संभविष्यति। |
24753 | MRK 12:11 | एतत् कर्म्म परेशस्यांद्भुतं नो दृष्टितो भवेत्॥" इमां शास्त्रीयां लिपिं यूयं किं नापाठिष्ट? |
24768 | MRK 12:26 | पुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि? |
24771 | MRK 12:29 | "हे इस्रायेल्लोका अवधत्त, अस्माकं प्रभुः परमेश्वर एक एव, |
24772 | MRK 12:30 | यूयं सर्व्वन्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैः सर्व्वशक्तिभिश्च तस्मिन् प्रभौ परमेश्वरे प्रीयध्वं," इत्याज्ञा श्रेष्ठा। |
24773 | MRK 12:31 | तथा "स्वप्रतिवासिनि स्ववत् प्रेम कुरुध्वं," एषा या द्वितीयाज्ञा सा तादृशी; एताभ्यां द्वाभ्याम् आज्ञाभ्याम् अन्या काप्याज्ञा श्रेष्ठा नास्ति। |
24778 | MRK 12:36 | स्वयं दायूद् पवित्रस्यात्मन आवेशेनेदं कथयामास। यथा। "मम प्रभुमिदं वाक्यवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व् उपाविश।" |
24923 | MRK 15:28 | तेनैव "अपराधिजनैः सार्द्धं स गणितो भविष्यति," इति शास्त्रोक्तं वचनं सिद्धमभूत। |
24929 | MRK 15:34 | ततस्तृतीयप्रहरे यीशुरुच्चैरवदत् एली एली लामा शिवक्तनी अर्थाद् "हे मदीश मदीश त्वं पर्य्यत्याक्षीः कुतो हि मां?" |
25065 | LUK 2:23 | "प्रथमजः सर्व्वः पुरुषसन्तानः परमेश्वरे समर्प्यतां," इति परमेश्वरस्य व्यवस्थया |
26663 | JHN 12:14 | तदा "हे सियोनः कन्ये मा भैषीः पश्यायं तव राजा गर्द्दभशावकम् आरुह्यागच्छति" |
26689 | JHN 12:40 | यदा, "ते नयनै र्न पश्यन्ति बुद्धिभिश्च न बुध्यन्ते तै र्मनःसु परिवर्त्तितेषु च तानहं यथा स्वस्थान् न करोमि तथा स तेषां लोचनान्यन्धानि कृत्वा तेषामन्तःकरणानि गाढानि करिष्यति।" |
26931 | JHN 19:37 | तद्वद् अन्यशास्त्रेपि लिख्यते, यथा, "दृष्टिपातं करिष्यन्ति तेऽविधन् यन्तु तम्प्रति।" |
27088 | ACT 3:23 | किन्तु यः कश्चित् प्राणी तस्य भविष्यद्वादिनः कथां न ग्रहीष्यति स निजलोकानां मध्याद् उच्छेत्स्यते," इमां कथाम् अस्माकं पूर्व्वपुरुषेभ्यः केवलो मूसाः कथयामास इति नहि, |
27090 | ACT 3:25 | यूयमपि तेषां भविष्यद्वादिनां सन्तानाः, "तव वंशोद्भवपुंसा सर्व्वदेशीया लोका आशिषं प्राप्ता भविष्यन्ति", इब्राहीमे कथामेतां कथयित्वा ईश्वरोस्माकं पूर्व्वपुरुषैः सार्द्धं यं नियमं स्थिरीकृतवान् तस्य नियमस्याधिकारिणोपि यूयं भवथ। |
27993 | ACT 28:26 | "उपगत्य जनानेतान् त्वं भाषस्व वचस्त्विदं। कर्णैः श्रोष्यथ यूयं हि किन्तु यूयं न भोत्स्यथ। नेत्रै र्द्रक्ष्यथ यूयञ्च ज्ञातुं यूयं न शक्ष्यथ। |
28015 | ROM 1:17 | यतः प्रत्ययस्य समपरिमाणम् ईश्वरदत्तं पुण्यं तत्सुसंवादे प्रकाशते। तदधि धर्म्मपुस्तकेपि लिखितमिदं "पुण्यवान् जनो विश्वासेन जीविष्यति"। |
28054 | ROM 2:24 | शास्त्रे यथा लिखति "भिन्नदेशिनां समीपे युष्माकं दोषाद् ईश्वरस्य नाम्नो निन्दा भवति।" |
29179 | GAL 3:10 | यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।" |
29180 | GAL 3:11 | ईश्वरस्य साक्षात् कोऽपि व्यवस्थया सपुण्यो न भवति तद व्यक्तं यतः "पुण्यवान् मानवो विश्वासेन जीविष्यतीति" शास्त्रीयं वचः। |
29182 | GAL 3:13 | ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।" |
29225 | GAL 4:27 | यादृशं लिखितम् आस्ते, "वन्ध्ये सन्तानहीने त्वं स्वरं जयजयं कुरु। अप्रसूते त्वयोल्लासो जयाशब्दश्च गीयतां। यत एव सनाथाया योषितः सन्तते र्गणात्। अनाथा या भवेन्नारी तदपत्यानि भूरिशः॥" |
29228 | GAL 4:30 | किन्तु शास्त्रे किं लिखितं? "त्वम् इमां दासीं तस्याः पुत्रञ्चापसारय यत एष दासीपुत्रः पत्नीपुत्रेण समं नोत्तराधिकारी भविय्यतीति।" |
29347 | EPH 4:8 | यथा लिखितम् आस्ते, "ऊर्द्ध्वम् आरुह्य जेतृन् स विजित्य बन्दिनोऽकरोत्। ततः स मनुजेभ्योऽपि स्वीयान् व्यश्राणयद् वरान्॥" |
29385 | EPH 5:14 | एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति।" |
30035 | HEB 1:5 | यतो दूतानां मध्ये कदाचिदीश्वरेणेदं क उक्तः? यथा, "मदीयतनयो ऽसि त्वम् अद्यैव जनितो मया।" पुनश्च "अहं तस्य पिता भविष्यामि स च मम पुत्रो भविष्यति।" |
30036 | HEB 1:6 | अपरं जगति स्वकीयाद्वितीयपुत्रस्य पुनरानयनकाले तेनोक्तं, यथा, "ईश्वरस्य सकलै र्दूतैरेष एव प्रणम्यतां।" |
30037 | HEB 1:7 | दूतान् अधि तेनेदम् उक्तं, यथा, "स करोति निजान् दूतान् गन्धवाहस्वरूपकान्। वह्निशिखास्वरूपांश्च करोति निजसेवकान्॥" |
30038 | HEB 1:8 | किन्तु पुत्रमुद्दिश्य तेनोक्तं, यथा, "हे ईश्वर सदा स्थायि तव सिंहासनं भवेत्। याथार्थ्यस्य भवेद्दण्डो राजदण्डस्त्वदीयकः। |
30039 | HEB 1:9 | पुण्ये प्रेम करोषि त्वं किञ्चाधर्म्मम् ऋतीयसे। तस्माद् य ईश ईशस्ते स ते मित्रगणादपि। अधिकाह्लादतैलेन सेचनं कृतवान् तव॥" |
30040 | HEB 1:10 | पुनश्च, यथा, "हे प्रभो पृथिवीमूलम् आदौ संस्थापितं त्वया। तथा त्वदीयहस्तेन कृतं गगनमण्डलं। |
30042 | HEB 1:12 | सङ्कोचितं त्वया तत्तु वस्त्रवत् परिवर्त्स्यते। त्वन्तु नित्यं स एवासी र्निरन्तास्तव वत्सराः॥" |
30043 | HEB 1:13 | अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥" |
30050 | HEB 2:6 | किन्तु कुत्रापि कश्चित् प्रमाणम् ईदृशं दत्तवान्, यथा, "किं वस्तु मानवो यत् स नित्यं संस्मर्य्यते त्वया। किं वा मानवसन्तानो यत् स आलोच्यते त्वया। |
30052 | HEB 2:8 | चरणाधश्च तस्यैव त्वया सर्व्वं वशीकृतं॥" तेन सर्व्वं यस्य वशीकृतं तस्यावशीभूतं किमपि नावशेषितं किन्त्वधुनापि वयं सर्व्वाणि तस्य वशीभूतानि न पश्यामः। |
30056 | HEB 2:12 | तेन स उक्तवान्, यथा, "द्योतयिष्यामि ते नाम भ्रातृणां मध्यतो मम। परन्तु समिते र्मध्ये करिष्ये ते प्रशंसनं॥" |
30057 | HEB 2:13 | पुनरपि, यथा, "तस्मिन् विश्वस्य स्थाताहं।" पुनरपि, यथा, "पश्याहम् अपत्यानि च दत्तानि मह्यम् ईश्वरात्।" |
30069 | HEB 3:7 | अतो हेतोः पवित्रेणात्मना यद्वत् कथितं, तद्वत्, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ। |
30073 | HEB 3:11 | इति हेतोरहं कोपात् शपथं कृतवान् इमं। प्रेवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम॥" |
30084 | HEB 4:3 | तद् विश्रामस्थानं विश्वासिभिरस्माभिः प्रविश्यते यतस्तेनोक्तं, "अहं कोपात् शपथं कृतवान् इमं, प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम।" किन्तु तस्य कर्म्माणि जगतः सृष्टिकालात् समाप्तानि सन्ति। |
30085 | HEB 4:4 | यतः कस्मिंश्चित् स्थाने सप्तमं दिनमधि तेनेदम् उक्तं, यथा, "ईश्वरः सप्तमे दिने स्वकृतेभ्यः सर्व्वकर्म्मभ्यो विशश्राम।" |
30086 | HEB 4:5 | किन्त्वेतस्मिन् स्थाने पुनस्तेनोच्यते, यथा, "प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम।" |
30088 | HEB 4:7 | इति हेतोः स पुनरद्यनामकं दिनं निरूप्य दीर्घकाले गतेऽपि पूर्व्वोक्तां वाचं दायूदा कथयति, यथा, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्हि मा कुरुतेदानीं कठिनानि मनांसि वः।" |
30102 | HEB 5:5 | एवम्प्रकारेण ख्रीष्टोऽपि महायाजकत्वं ग्रहीतुं स्वीयगौरवं स्वयं न कृतवान्, किन्तु "मदीयतनयोऽसि त्वम् अद्यैव जनितो मयेति" वाचं यस्तं भाषितवान् स एव तस्य गौरवं कृतवान्। |
30125 | HEB 6:14 | "सत्यम् अहं त्वाम् आशिषं गदिष्यामि तवान्वयं वर्द्धयिष्यामि च।" |
30148 | HEB 7:17 | यत ईश्वर इदं साक्ष्यं दत्तवान्, यथा, "त्वं मक्लीषेदकः श्रेण्यां याजकोऽसि सदातनः।" |
30153 | HEB 7:22 | "परमेश इदं शेपे न च तस्मान्निवर्त्स्यते। त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः।" |
30164 | HEB 8:5 | ते तु स्वर्गीयवस्तूनां दृष्टान्तेन छायया च सेवामनुतिष्ठन्ति यतो मूससि दूष्यं साधयितुम् उद्यते सतीश्वरस्तदेव तमादिष्टवान् फलतः स तमुक्तवान्, यथा, "अवधेहि गिरौ त्वां यद्यन्निदर्शनं दर्शितं तद्वत् सर्व्वाणि त्वया क्रियन्तां।" |
30167 | HEB 8:8 | किन्तु स दोषमारोपयन् तेभ्यः कथयति, यथा, "परमेश्वर इदं भाषते पश्य यस्मिन् समयेऽहम् इस्रायेलवंशेन यिहूदावंशेन च सार्द्धम् एकं नवीनं नियमं स्थिरीकरिष्याम्येतादृशः समय आयाति। |
30171 | HEB 8:12 | यतो हेतोरहं तेषाम् अधर्म्मान् क्षमिष्ये तेषां पापान्यपराधांश्च पुनः कदापि न स्मरिष्यामि।" |
30205 | HEB 10:5 | एतत्कारणात् ख्रीष्टेन जगत् प्रविश्येदम् उच्यते, यथा, "नेष्ट्वा बलिं न नैवेद्यं देहो मे निर्म्मितस्त्वया। |
30207 | HEB 10:7 | अवादिषं तदैवाहं पश्य कुर्व्वे समागमं। धर्म्मग्रन्थस्य सर्गे मे विद्यते लिखिता कथा। ईश मनोऽभिलाषस्ते मया सम्पूरयिष्यते।" |
30209 | HEB 10:9 | ततः परं तेनोक्तं यथा, "पश्य मनोऽभिलाषं ते कर्त्तुं कुर्व्वे समागमं;" द्वितीयम् एतद् वाक्यं स्थिरीकर्त्तुं स प्रथमं लुम्पति। |
30216 | HEB 10:16 | "यतो हेतोस्तद्दिनात् परम् अहं तैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामीति प्रथमत उक्त्वा परमेश्वरेणेदं कथितं, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां मनःसु च तान् लेखिष्यामि च, |
30217 | HEB 10:17 | अपरञ्च तेषां पापान्यपराधांश्च पुनः कदापि न स्मारिष्यामि।" |
30230 | HEB 10:30 | यतः परमेश्वरः कथयति, "दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।" पुनरपि, "तदा विचारयिष्यन्ते परेशेन निजाः प्रजाः।" इदं यः कथितवान् तं वयं जानीमः। |
30238 | HEB 10:38 | "पुण्यवान् जनो विश्वासेन जीविष्यति किन्तु यदि निवर्त्तते तर्हि मम मनस्तस्मिन् न तोषं यास्यति।" |
30284 | HEB 12:5 | तथा च पुत्रान् प्रतीव युष्मान् प्रति य उपदेश उक्तस्तं किं विस्मृतवन्तः? "परेशेन कृतां शास्तिं हे मत्पुत्र न तुच्छय। तेन संभर्त्सितश्चापि नैव क्लाम्य कदाचन। |
30285 | HEB 12:6 | परेशः प्रीयते यस्मिन् तस्मै शास्तिं ददाति यत्। यन्तु पुत्रं स गृह्लाति तमेव प्रहरत्यपि।" |
30305 | HEB 12:26 | तदा तस्य रवात् पृथिवी कम्पिता किन्त्विदानीं तेनेदं प्रतिज्ञातं यथा, "अहं पुनरेककृत्वः पृथिवीं कम्पयिष्यामि केवलं तन्नहि गगनमपि कम्पयिष्यामि।" |
30313 | HEB 13:5 | यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।" |
30314 | HEB 13:6 | अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥" |