23214 | MAT 1:1 | इब्राहीमः सन्तानो दायूद् तस्य सन्तानो यीशुख्रीष्टस्तस्य पूर्व्वपुरुषवंशश्रेणी। |
23215 | MAT 1:2 | इब्राहीमः पुत्र इस्हाक् तस्य पुत्रो याकूब् तस्य पुत्रो यिहूदास्तस्य भ्रातरश्च। |
23226 | MAT 1:13 | तस्य सुतो ऽबोहुद् तस्य सुत इलीयाकीम् तस्य सुतोऽसोर्। |
23227 | MAT 1:14 | असोरः सुतः सादोक् तस्य सुत आखीम् तस्य सुत इलीहूद्। |
23228 | MAT 1:15 | तस्य सुत इलियासर् तस्य सुतो मत्तन्। |
23230 | MAT 1:17 | इत्थम् इब्राहीमो दायूदं यावत् साकल्येन चतुर्दशपुरुषाः; आ दायूदः कालाद् बाबिलि प्रवसनकालं यावत् चतुर्दशपुरुषा भवन्ति। बाबिलि प्रवासनकालात् ख्रीष्टस्य कालं यावत् चतुर्दशपुरुषा भवन्ति। |
23235 | MAT 1:22 | इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः। |
23236 | MAT 1:23 | इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्। |
23243 | MAT 2:5 | तदा ते कथयामासुः, यिहूदीयदेशस्य बैत्लेहमि नगरे, यतो भविष्यद्वादिना इत्थं लिखितमास्ते, |
23244 | MAT 2:6 | सर्व्वाभ्यो राजधानीभ्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेशस्ये बैत्लेहम् त्वं न चावरा। इस्रायेलीयलोकान् मे यतो यः पालयिष्यति। तादृगेको महाराजस्त्वन्मध्य उद्भविष्यती॥ |
23259 | MAT 2:21 | तदानीं स उत्थाय शिशुं तन्मातरञ्च गृह्लन् इस्रायेल्देशम् आजगाम। |
23264 | MAT 3:3 | परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथांश्चैव समीकुरुत सर्व्वथा। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥ |
23270 | MAT 3:9 | किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं शक्नोति। |
23271 | MAT 3:10 | अपरं पादपानां मूले कुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्येऽग्निं निक्षेप्स्यते। |
23276 | MAT 3:15 | तदानीं यीशुः प्रत्यवोचत्; ईदानीम् अनुमन्यस्व, यत इत्थं सर्व्वधर्म्मसाधनम् अस्माकं कर्त्तव्यं, ततः सोऽन्वमन्यत। |
23282 | MAT 4:4 | ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।" |
23284 | MAT 4:6 | त्वं यदिश्वरस्य तनयो भवेस्तर्हीतोऽधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥ |
23291 | MAT 4:13 | ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्। |
23320 | MAT 5:17 | अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि। |
23324 | MAT 5:21 | अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि। |
23325 | MAT 5:22 | किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति। |
23334 | MAT 5:31 | उक्तमास्ते, यदि कश्चिन् निजजायां परित्यक्त्तुम् इच्छति, तर्हि स तस्यै त्यागपत्रं ददातु। |
23340 | MAT 5:37 | अपरं यूयं संलापसमये केवलं भवतीति न भवतीति च वदत यत इतोऽधिकं यत् तत् पापात्मनो जायते। |
23345 | MAT 5:42 | यश्च मानवस्त्वां याचते, तस्मै देहि, यदि कश्चित् तुभ्यं धारयितुम् इच्छति, तर्हि तं प्रति परांमुखो मा भूः। |
23356 | MAT 6:5 | अपरं यदा प्रार्थयसे, तदा कपटिनइव मा कुरु, यस्मात् ते भजनभवने राजमार्गस्य कोणे तिष्ठन्तो लोकान् दर्शयन्तः प्रार्थयितुं प्रीयन्ते; अहं युष्मान् तथ्यं वदामि, ते स्वकीयफलं प्राप्नुवन्। |
23358 | MAT 6:7 | अपरं प्रार्थनाकाले देवपूजकाइव मुधा पुनरुक्तिं मा कुरु, यस्मात् ते बोधन्ते, बहुवारं कथायां कथितायां तेषां प्रार्थना ग्राहिष्यते। |
23367 | MAT 6:16 | अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तइव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त। |
23376 | MAT 6:25 | अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि? |
23381 | MAT 6:30 | तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति? |
23382 | MAT 6:31 | तस्मात् अस्माभिः किमत्स्यते? किञ्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत। |
23397 | MAT 7:12 | यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्। |
23414 | MAT 7:29 | यस्मात् स उपाध्याया इव तान् नोपदिदेश किन्तु समर्थपुरुषइव समुपदिदेश। |
23424 | MAT 8:10 | तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः। |
23425 | MAT 8:11 | अन्यच्चाहं युष्मान् वदामि, बहवः पूर्व्वस्याः पश्चिमायाश्च दिश आगत्य इब्राहीमा इस्हाका याकूबा च साकम् मिलित्वा समुपवेक्ष्यन्ति; |
23456 | MAT 9:8 | मानवा इत्थं विलोक्य विस्मयं मेनिरे, ईश्वरेण मानवाय सामर्थ्यम् ईदृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च। |
23468 | MAT 9:20 | इत्यनन्तरे द्वादशवत्सरान् यावत् प्रदरामयेन शीर्णैका नारी तस्य पश्चाद् आगत्य तस्य वसनस्य ग्रन्थिं पस्पर्श; |
23475 | MAT 9:27 | ततः परं यीशुस्तस्मात् स्थानाद् यात्रां चकार; तदा हे दायूदः सन्तान, अस्मान् दयस्व, इति वदन्तौ द्वौ जनावन्धौ प्रोचैराहूयन्तौ तत्पश्चाद् वव्रजतुः। |
23481 | MAT 9:33 | तेन भूते त्याजिते स मूकः कथां कथयितुं प्रारभत, तेन जना विस्मयं विज्ञाय कथयामासुः, इस्रायेलो वंशे कदापि नेदृगदृश्यत; |
23491 | MAT 10:5 | एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये |
23492 | MAT 10:6 | इस्रायेल्गोत्रस्य हारिता ये ये मेषास्तेषामेव समीपं यात। |
23502 | MAT 10:16 | पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत। |
23509 | MAT 10:23 | तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ। |
23519 | MAT 10:33 | पृथ्व्यामहं शान्तिं दातुमागतइति मानुभवत, शान्तिं दातुं न किन्त्वसिं। |
23527 | MAT 10:41 | यो भविष्यद्वादीति ज्ञात्वा तस्यातिथ्यं विधत्ते, स भविष्यद्वादिनः फलं लप्स्यते, यश्च धार्म्मिक इति विदित्वा तस्यातिथ्यं विधत्ते स धार्म्मिकमानवस्य फलं प्राप्स्यति। |
23528 | MAT 10:42 | यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते। |
23529 | MAT 11:1 | इत्थं यीशुः स्वद्वादशशिष्याणामाज्ञापनं समाप्य पुरे पुर उपदेष्टुं सुसंवादं प्रचारयितुं तत्स्थानात् प्रतस्थे। |
23546 | MAT 11:18 | यतो योहन् आगत्य न भुक्तवान् न पीतवांश्च, तेन लोका वदन्ति, स भूतग्रस्त इति। |
23553 | MAT 11:25 | एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि। |
23554 | MAT 11:26 | हे पितः, इत्थं भवेत् यत इदं त्वदृष्टावुत्तमं। |
23572 | MAT 12:14 | तदा फिरूशिनो बहिर्भूय कथं तं हनिष्याम इति कुमन्त्रणां तत्प्रातिकूल्येन चक्रुः। |
23573 | MAT 12:15 | ततो यीशुस्तद् विदित्वा स्थनान्तरं गतवान्; अन्येषु बहुनरेषु तत्पश्चाद् गतेषु तान् स निरामयान् कृत्वा इत्याज्ञापयत्, |
23583 | MAT 12:25 | तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति। |
23611 | MAT 13:3 | तदानीं स दृष्टान्तैस्तान् इत्थं बहुश उपदिष्टवान्। पश्यत, कश्चित् कृषीवलो बीजानि वप्तुं बहिर्जगाम, |
23642 | MAT 13:34 | इत्थं यीशु र्मनुजनिवहानां सन्निधावुपमाकथाभिरेतान्याख्यानानि कथितवान् उपमां विना तेभ्यः किमपि कथां नाकथयत्। |
23651 | MAT 13:43 | तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्करइव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्। |
23652 | MAT 13:44 | अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं। |
23654 | MAT 13:46 | महार्घां मुक्तां विलोक्य निजसर्व्वस्वं विक्रीय तां क्रीणाति, स इव स्वर्गराज्यं। |
23655 | MAT 13:47 | पुनश्च समुद्रो निक्षिप्तः सर्व्वप्रकारमीनसंग्राह्यानायइव स्वर्गराज्यं। |
23660 | MAT 13:52 | तदानीं स कथितवान्, निजभाण्डागारात् नवीनपुरातनानि वस्तूनि निर्गमयति यो गृहस्थः स इव स्वर्गराज्यमधि शिक्षिताः स्वर्व उपदेष्टारः। |
23664 | MAT 13:56 | एतस्य भगिन्यश्च किमस्माकं मध्ये न सन्ति? तर्हि कस्मादयमेतानि लब्धवान्? इत्थं स तेषां विघ्नरूपो बभूव; |
23673 | MAT 14:7 | तस्मात् भूपतिः शपथं कुर्व्वन् इति प्रत्यज्ञासीत्, त्वया यद् याच्यते, तदेवाहं दास्यामि। |
23681 | MAT 14:15 | ततः परं सन्ध्यायां शिष्यास्तदन्तिकमागत्य कथयाञ्चक्रुः, इदं निर्जनस्थानं वेलाप्यवसन्ना; तस्मात् मनुजान् स्वस्वग्रामं गन्तुं स्वार्थं भक्ष्याणि क्रेतुञ्च भवान् तान् विसृजतु। |
23692 | MAT 14:26 | किन्तु शिष्यास्तं सागरोपरि व्रजन्तं विलोक्य समुद्विग्ना जगदुः, एष भूत इति शङ्कमाना उच्चैः शब्दायाञ्चक्रिरे च। |
23694 | MAT 14:28 | ततः पितर इत्युक्तवान्, हे प्रभो, यदि भवानेव, तर्हि मां भवत्समीपं यातुमाज्ञापयतु। |
23706 | MAT 15:4 | ईश्वर इत्याज्ञापयत्, त्वं निजपितरौ संमन्येथाः, येन च निजपितरौ निन्द्येते, स निश्चितं म्रियेत; |
23708 | MAT 15:6 | स निजपितरौ पुन र्न संमंस्यते। इत्थं यूयं परम्परागतेन स्वेषामाचारेणेश्वरीयाज्ञां लुम्पथ। |
23726 | MAT 15:24 | तदा स प्रत्यवदत्, इस्रायेल्गोत्रस्य हारितमेषान् विना कस्याप्यन्यस्य समीपं नाहं प्रेषितोस्मि। |
23733 | MAT 15:31 | इत्थं मूका वाक्यं वदन्ति, शुष्ककराः स्वास्थ्यमायान्ति, पङ्गवो गच्छन्ति, अन्धा वीक्षन्ते, इति विलोक्य लोका विस्मयं मन्यमाना इस्रायेल ईश्वरं धन्यं बभाषिरे। |
23748 | MAT 16:7 | तेन ते परस्परं विविच्य कथयितुमारेभिरे, वयं पूपानानेतुं विस्मृतवन्त एतत्कारणाद् इति कथयति। |
23753 | MAT 16:12 | तदानीं पूपकिण्वं प्रति सावधानास्तिष्ठतेति नोक्त्वा फिरूशिनां सिदूकिनाञ्च उपदेशं प्रति सावधानास्तिष्ठतेति कथितवान्, इति तैरबोधि। |
23765 | MAT 16:24 | अनन्तरं यीशुः स्वीयशिष्यान् उक्तवान् यः कश्चित् मम पश्चाद्गामी भवितुम् इच्छति, स स्वं दाम्यतु, तथा स्वक्रुशं गृह्लन् मत्पश्चादायातु। |
23773 | MAT 17:4 | तदानीं पितरो यीशुं जगाद, हे प्रभो स्थितिरत्रास्माकं शुभा, यदि भवतानुमन्यते, तर्हि भवदर्थमेकं मूसार्थमेकम् एलियार्थञ्चैकम् इति त्रीणि दूष्याणि निर्म्मम। |
23778 | MAT 17:9 | ततः परम् अद्रेरवरोहणकाले यीशुस्तान् इत्यादिदेश, मनुजसुतस्य मृतानां मध्यादुत्थानं यावन्न जायते, तावत् युष्माभिरेतद्दर्शनं कस्मैचिदपि न कथयितव्यं। |
23782 | MAT 17:13 | तदानीं स मज्जयितारं योहनमधि कथामेतां व्याहृतवान्, इत्थं तच्छिष्या बुबुधिरे। |
23813 | MAT 18:17 | तेन स यदि तयो र्वाक्यं न मान्यते, तर्हि समाजं तज्ज्ञापय, किन्तु यदि समाजस्यापि वाक्यं न मान्यते,तर्हि स तव समीपे देवपूजकइव चण्डालइव च भविष्यति। |
23830 | MAT 18:34 | इति कथयित्वा तस्य प्रभुः क्रुद्ध्यन् निजप्राप्यं यावत् स न परिशोधितवान्, तावत् प्रहारकानां करेषु तं समर्पितवान्। |
23851 | MAT 19:20 | स युवा कथितवान्, आ बाल्याद् एताः पालयामि, इदानीं किं न्यूनमास्ते? |
23854 | MAT 19:23 | तदा यीशुः स्वशिष्यान् अवदत्, धनिनां स्वर्गराज्यप्रवेशो महादुष्कर इति युष्मानहं तथ्यं वदामि। |
23856 | MAT 19:25 | इति वाक्यं निशम्य शिष्या अतिचमत्कृत्य कथयामासुः; तर्हि कस्य परित्राणं भवितुं शक्नोति? |
23859 | MAT 19:28 | ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ। |
23877 | MAT 20:16 | इत्थम् अग्रीयलोकाः पश्चतीया भविष्यन्ति, पश्चातीयजनाश्चग्रीया भविष्यन्ति, अहूता बहवः किन्त्वल्पे मनोभिलषिताः। |
23884 | MAT 20:23 | तदा स उक्तवान्, युवां मम कंसेनावश्यं पास्यथः, मम मज्जनेन च युवामपि मज्जिष्येथे, किन्तु येषां कृते मत्तातेन निरूपितम् इदं तान् विहायान्यं कमपि मद्दक्षिणपार्श्वे वामपार्श्वे च समुपवेशयितुं ममाधिकारो नास्ति। |
23886 | MAT 20:25 | किन्तु यीशुः स्वसमीपं तानाहूय जगाद, अन्यदेशीयलोकानां नरपतयस्तान् अधिकुर्व्वन्ति, ये तु महान्तस्ते तान् शासति, इति यूयं जानीथ। |
23889 | MAT 20:28 | इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः। |
23905 | MAT 21:10 | इत्थं तस्मिन् यिरूशालमं प्रविष्टे कोऽयमिति कथनात् कृत्स्नं नगरं चञ्चलमभवत्। |
23911 | MAT 21:16 | तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत? |
23932 | MAT 21:37 | अनन्तरं मम सुते गते तं समादरिष्यन्ते, इत्युक्त्वा शेषे स निजसुतं तेषां सन्निधिं प्रेषयामास। |